वांछित मन्त्र चुनें

ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ । शं न॒: क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्न॒: सूर्यं॑ दृ॒शये॑ रिरीहि ॥

अंग्रेज़ी लिप्यंतरण

evā punāno apaḥ svar gā asmabhyaṁ tokā tanayāni bhūri | śaṁ naḥ kṣetram uru jyotīṁṣi soma jyoṅ naḥ sūryaṁ dṛśaye rirīhi ||

पद पाठ

ए॒व । पु॒ना॒नः । अ॒पः । स्वः॑ । गाः । अ॒स्मभ्य॑म् । तो॒का । तन॑यानि । भूरि॑ । शम् । नः॒ । क्षेत्र॑म् । उ॒रु । ज्योतीं॑षि । सो॒म॒ । ज्योक् । नः॒ । सूर्य॑म् । दृ॒शये॑ । रि॒री॒हि॒ ॥ ९.९१.६

ऋग्वेद » मण्डल:9» सूक्त:91» मन्त्र:6 | अष्टक:7» अध्याय:4» वर्ग:1» मन्त्र:6 | मण्डल:9» अनुवाक:5» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन्। (एव पुनानः) इस प्रकार पवित्र करते हुए आप (अपः) अन्तरिक्षलोक (स्वः) स्वर्गलोग और (गाः) पृथिवीलोक (अस्मभ्यं) हमारे लिये दें। (तोका) पुत्र और (तनयानि) पौत्र (भूरि) बहुत से प्रदान करें और (नः) हमारे लिये (शं) कल्याण हो (उरुक्षेत्रं) और विस्तृत क्षेत्र हों। (सोम) हे परमात्मन् ! (उरु ज्योतींषी) बहुत सी ज्योतियें (नः) हमारे लिये हों और (ज्योक्) चिरकाल तक (सूर्य्यं दृशये) इस तेजोमय सूर्य्य के देखने के लिये (रिरीहि) सामर्थ्ययुक्त बनायें ॥६॥
भावार्थभाषाः - जो लोग ईश्वर की आज्ञा का पालन करते हैं, परमात्मा उनके लिये सब प्रकार के ऐश्वर्य्य प्रदान करता है ॥६॥ यह ९१ वाँ सूक्त और पहला वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (एव, पुनानः) अनेन प्रकारेण पवित्रयँस्त्वं (अपः) अन्तरिक्षं (स्वः) स्वर्गलोकं (गाः) पृथिवीलोकञ्च (अस्मभ्यं) अस्मभ्यं देहि (तोका) पुत्रान् (भूरि) प्रचुरान् (तनयानि) पौत्रांश्च वितर, किञ्च (नः) अस्मभ्यं (शं) कल्याणं भवेत् (उरु, क्षेत्रं) विस्तृतानि क्षेत्राणि च स्युः (सोम) हे परमात्मन् ! (उरु, ज्योतींषि) भूयांसि तेजांसि (नः) अस्मदर्थं सन्तु, किञ्च हे परमात्मन्, (ज्योक्) चिरकालपर्य्यन्तं (सूर्यं, दृशये) तेजोमयमिमं सूर्य्यमभिविलोकयितुम् (रिरीहि) अस्मान् सामर्थ्यशालिनः कुरु ॥६॥ इत्येकनवतितमं सूक्तं प्रथमो वर्गश्च समाप्तः ॥